वांछित मन्त्र चुनें

उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ । इन्द्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥

अंग्रेज़ी लिप्यंतरण

upa brahmāṇi harivo haribhyāṁ somasya yāhi pītaye sutasya | indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvām̐ asy adhvarasya praketaḥ ||

पद पाठ

उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ । इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥ १०.१०४.६

ऋग्वेद » मण्डल:10» सूक्त:104» मन्त्र:6 | अष्टक:8» अध्याय:5» वर्ग:25» मन्त्र:1 | मण्डल:10» अनुवाक:9» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (हरिवः) हे दुःखहरणशील गुणवाले (इन्द्र) परमात्मन् ! तू  (सुतस्य) निष्पादित (सोमस्य) उपासनारस के (पीतये) पान के लिए (ब्रह्माणि) वैदिक प्रार्थना और वचनों को (हरिभ्याम्) दुःख हरनेवाले अपने कृपाप्रसाद में से (उप याहि) उपयुक्त कर-उन्हें सफल बना (त्वा क्षममाणम्) तुझ समर्थ होते हुए को (यज्ञः) अध्यात्मयज्ञ  (आनट्) व्याप्त होता है (प्रकेतः) हे प्रेरक ! (अध्वरस्य) अहिंसनीय अध्यात्मयज्ञ के फलरूप अपने आनन्द को (दाश्वान्-असि) देनेवाला है ॥६॥
भावार्थभाषाः - वैदिक वचनों द्वारा परमात्मा की स्तुति प्रार्थना करनी चाहिए। वह अपने कृपाप्रसाद से स्वीकार करके हररूप में अपना आनन्द प्रदान करता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (हरिवः-इन्द्र) हे दुःखहरणशील ! गुणवन् ! परमात्मन् ! त्वं (सुतस्य सोमस्य पीतये) निष्पादितस्योपासनारसस्य पानाय (ब्रह्माणि हरिभ्याम्-उप याहि) वैदिकप्रार्थनावचनानि “ब्रह्माणि वेदस्थानि स्तोत्राणि” [ऋ० १।३।६ दयानन्दः] दुःखहरणाभ्यां स्वकीयकृपाप्रसादाभ्यामुपयुङ्क्ष्व सफलानि कुरु (त्वा क्षममाणं यज्ञः-आनट्) त्वां समर्थं सन्तमध्यात्मयज्ञो व्याप्नोति (प्रकेतः) हे प्रेरक ! (अध्वरस्य दाश्वान्-असि) अहिंसनीयस्याध्यात्मयज्ञस्य फलस्य स्वानन्दस्य दाताऽसि ॥६॥